वामन प्रभु की जयंती (भाद्रपद शुक्ल द्वादशी)
वामन प्रभु की जयंती (भाद्रपद शुक्ल द्वादशी)
शीघ्र यश और मान-सम्मान देने वाला वामन पुराण अध्याय 87 का स्तोत्र -
आज श्री वामन प्रभु की जयंती पर ।
मत्स्यं नमस्ये देवेशं कूर्म गोविन्दमेव च।
हयशीर्ष नमस्येऽहं भवं विष्णुं त्रिविक्रमम् ॥1
नमस्ये माधवेशानौ हृषीकेश-कुमारिणौ ।
नारायणं नमस्येऽहं नमस्ये गरुडासनम् ॥2
ऊर्ध्वकेशं नृसिंहं च रूपधारं कुरुध्वजम् ।
काम-पालम-खण्डं च नमस्ये ब्राह्मण*प्रियम् ॥3
अजितं विश्व-कर्माणं पुण्डरीकं द्विज-प्रियम् ।
हंसं शम्भुं नमस्ये च ब्रह्माणं सप्रजापतिम् ॥4
नमस्ये शूलबाहुं च देवं चक्रधरं तथा।
शिवं विष्णुं सुवर्णाक्षं गोपतिं पीत-वाससम् ॥ 5
नमस्ये च गदा-पाणिं नमस्ये च कुशे-शयम् ।
अर्धनारीश्वरं देवं नमस्ये पापनाशनम् ॥6
गोपालं च सवैकुण्ठं नमस्ये चापराजितम् ।
नमस्ये विश्वरूपं च सौगन्धिं सर्वदा-शिवम् ॥7
पाञ्चालिकं हयग्रीवं स्वयम्भुव-ममरेश्वरम् ।
नमस्ये पुष्कराक्षं च पयो-गन्धिं च केशवम् ॥ 8
अविमुक्तं च लोलं च ज्येष्ठेशं मध्यमं तथा ।
उपशान्तं नमस्येऽहं मार्कण्डेयं सजम्बुकम् ॥9
नमस्ये पद्म-किरणं नमस्ये वडवा-मुखम्
कार्तिकेयं नमस्येऽहं बाह्लीकं शिखिनं तथा ॥10
नमस्ये स्थाणुम-नघं नमस्ये वन-मालिनम्।
नमस्ये लाङ्गलीशं च नमस्येऽहं श्रियः पतिम् ॥ 11
नमस्ये च त्रिनयनं नमस्ये हव्यवाहनम् ।
नमस्ये च त्रि-सौवर्णं नमस्ये धरणी-धरम् ॥ 12
त्रिणाचि-केतं ब्रह्मेशं नमस्ये शशि-भूषणम् ।
कपर्दिनं नमस्ये च सर्वामय-विनाशनम् ॥ 13
नमस्ये शशिनं सूर्यं ध्रुवं रौद्रं महौजसम् ।
पद्म-नाभं हिरण्याक्षं नमस्ये स्कन्दमव्ययम् ॥ 14
नमस्ये भीमहंसौ च नमस्ये हाट-केश्वरम् ।
सदा-हंसं नमस्ये च नमस्ये प्राणतर्पणम् ॥ 15
नमस्ये रुक्म-कवचं महायोगिनमीश्वरम् ।
नमस्ये श्रीनिवासं च नमस्ये पुरुषोत्तमम् ॥ 16
नमस्ये च चतुर्बाहुं नमस्ये वसुधा-धिपम् ।
वनस्पतिं पशुपतिं नमस्ये प्रभुमव्ययम् ॥ 17
श्रीकण्ठं वासुदेवं नीलकण्ठं सदण्डिनम्।
नमस्ये सर्वम-नघं गौरीशं नकुलीश्वरम् ॥ 18
मनोहरं कृष्ण-केशं नमस्ये चक्र-पाणिनम् ।
यशोधरं महा-बाहुं नमस्ये च कुश-प्रियम् ॥ 19
भूधरं छादित-गदं सुनेत्रं शूल-शङ्खिनम् ।
भद्राक्षं वीरभद्रं च नमस्ये शङ्कु-कर्णिकम् ॥ 20
वृष-ध्वजं महेशं च विश्वा-मित्रं शशि-प्रभम् ।
उपेन्द्रं चैव गोविन्दं नमस्ये पङ्कज-प्रियम् ॥ 21
सहस्त्र-शिरसं देवं नमस्ये कुन्द-मालिनम्।
कालाग्निं रुद्रदेवेशं नमस्ये कृत्ति-वाससम् ॥ 22
नमस्ये छागलेशं च नमस्ये पङ्कजासनम् ।
सहस्राक्षं कोक-नदं नमस्ये हरि-शङ्करम् ॥ 23
अगस्त्यं गरुडं विष्णुं कपिलं ब्रह्म-वाड्मयम् ।
सनातनं च ब्रह्माणं नमस्ये ब्रह्म-तत्परम् ॥ 24
अप्रतर्क्यं चतुर्बाहुं सहस्रांशुं तपो-मयम्।
नमस्ये धर्म-राजानं देवं गरुड-वाहनम् ॥ 25
सर्व-भूतगतं शान्तं निर्मलं सर्व-लक्षणम् ।
महा-योगिनम-व्यक्तं नमस्ये पाप-नाशनम् ॥ 26
निरञ्जनं निराकारं निर्गुणं निर्मलं पदम् ।
नमस्ये पापहन्तारं शरण्यं शरणं व्रजे ॥ 27
एतत् पवित्रं परमं पुराणं
प्रोक्तं त्वगस्त्येन महर्षिणा च।
धन्यं यशस्यं बहु-पाप-नाशनं
संकीर्तनात् स्मरणात् संश्रवाच्च ॥
Comments
Post a Comment