वामन प्रभु की जयंती (भाद्रपद शुक्ल द्वादशी)
वामन प्रभु की जयंती (भाद्रपद शुक्ल द्वादशी) शीघ्र यश और मान-सम्मान देने वाला वामन पुराण अध्याय 87 का स्तोत्र - आज श्री वामन प्रभु की जयंती पर । मत्स्यं नमस्ये देवेशं कूर्म गोविन्दमेव च। हयशीर्ष नमस्येऽहं भवं विष्णुं त्रिविक्रमम् ॥1 नमस्ये माधवेशानौ हृषीकेश-कुमारिणौ । नारायणं नमस्येऽहं नमस्ये गरुडासनम् ॥2 ऊर्ध्वकेशं नृसिंहं च रूपधारं कुरुध्वजम् । काम-पालम-खण्डं च नमस्ये ब्राह्मण*प्रियम् ॥3 अजितं विश्व-कर्माणं पुण्डरीकं द्विज-प्रियम् । हंसं शम्भुं नमस्ये च ब्रह्माणं सप्रजापतिम् ॥4 नमस्ये शूलबाहुं च देवं चक्रधरं तथा। शिवं विष्णुं सुवर्णाक्षं गोपतिं पीत-वाससम् ॥ 5 नमस्ये च गदा-पाणिं नमस्ये च कुशे-शयम् । अर्धनारीश्वरं देवं नमस्ये पापनाशनम् ॥6 गोपालं च सवैकुण्ठं नमस्ये चापराजितम् । नमस्ये विश्वरूपं च सौगन्धिं सर्वदा-शिवम् ॥7 पाञ्चालिकं हयग्रीवं स्वयम्भुव-ममरेश्वरम् । नमस्ये पुष्कराक्षं च पयो-गन्धिं च केशवम् ॥ 8 अविमुक्तं च लोलं च ज्येष्ठेशं मध्यमं तथा । उपशान्तं नमस्येऽहं मार्कण्डेयं सजम्बुकम् ॥9 नमस्ये पद्म-किरणं नमस्ये ...